Home  ›  Ringtones  ›  Vishnu Sahasranamam, Pt. 1 Ringtone

Vishnu Sahasranamam, Pt. 1 Ringtone

A timeless Carnatic classical chant invoking profound spiritual serenity through recitation of Lord Vishnu's thousand sacred names. Ideal for meditation, temple rituals, or daily devotional practices fostering inner peace and divine connection.

00:00 / 00:28
icon icon
icon
icon

Download free Vishnu Sahasranamam, Pt. 1 ringtone for your mobile phone. You can download Vishnu Sahasranamam, Pt. 1 ringtone as MP3 file for Android or M4R file for iPhone.

Download .mp3 for Android
Download .m4r for iPhone

Vishnu Sahasranamam, Pt. 1 - Song Lyrics

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे
Read More >>

नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः
अविकाराय शुद्धाय नित्याय परमात्मने
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात्
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे
ॐ नमो विष्णवे प्रभविष्णवे
श्रीवैशम्पायन उवाच
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत
युधिष्ठिर उवाच
किमेकं दैवतं लोके किं वाप्येकं परायणम्
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्
को धर्मः सर्वधर्माणां भवतः परमो मतः
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्
श्री भीष्म उवाच
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा
परमं यो महत्तेजः परमं यो महत्तपः
परमं यो महद्ब्रह्म परमं यः परायणम्
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्
दैवतं दैवतानां च भूतानां योऽव्ययः पिता
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते
विष्णोर्नामसहस्रं मे शृणु पापभयापहम्
यानि नामानि गौणानि विख्यातानि महात्मनः
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः
अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम्
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम्
अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्र महामन्त्रस्य
श्री वेदव्यासो भगवानृषिः अनुष्टुप् छन्दः
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता
अमृतांशूद्भवो भानुरिति बीजम्
देवकीनन्दनः स्रष्टेति शक्तिः
उद्भवः क्षोभणो देव इति परमो मन्त्रः
शङ्खभृन्नन्दकी चक्रीति कीलकम्
शार्ङ्गधन्वा गदाधर इत्यस्त्रम्
रथाङ्गपाणिरक्षोभ्य इति नेत्रम्
त्रिसामा सामगस्सामेति कवचम्
आनन्दं परब्रह्मेति योनिः
ऋतुस्सुदर्शनः काल इति दिग्बन्धः
श्री विश्वरूप इति ध्यानम्
श्रीमहाविष्णु प्रीत्यर्थे सहस्रनाम जपे विनियोगः
ध्यानम्
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां
मालाक्लुप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूषवर्षैः
आनन्दी नः पुनीयादरिनलिनगदाशङ्खपाणिर्मुकुन्दः
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावासाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि
ॐ नमो भगवते वासुदेवाय
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम्
नमः समस्तभूतानामादिभूताय भूभृते
अनेकरूपरूपाय विष्णवे प्रभविष्णवे
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम्
सहारवक्षःस्थलशोभिकौस्तुभं
नमामि विष्णुं शिरसा चतुर्भुजम्
छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलङ्कृतम्
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये
Name: Vishnu Sahasranamam, Pt. 1 - M. S. Subbulakshmi
File type: MP3(Android) & M4R(iPhone)
Duration: 28s
File Size: 441.09 KB
Downloads: 397

Vishnu Sahasranamam, Pt. 1 Related Ringtones

Best Ringtones 2026

News

Thanks for letting us know
Your feedback is important in helping us keep the Downringtone community safe.
Close

Upload a ringtone

You can upload MP3, WAV, M4A, OGG, M4R, ACC format files.

By selecting 'Upload' you are representing that this item is not obscene and does not otherwise violate Terms of Service, and that you own all copyrights to this item or have express permission from the copyright owner(s) to upload it.

Before uploading, please read our Privacy.

Next Ringtone Vishnu Sahasranamam Fast | Bhakti Song | Vishnu Sahasranamam with Lyrics →